श्रीगदितमिति १३ मनीषिभिरुदाहृतोऽसौ पदाभिनयः॥ २८१॥
चौर्यरतप्रतिभेदं यूनोरनुरागवर्णनं वापि।
यत्र ग्राम्यकथाभिः कुरुते किल दूतिका रहसि॥ २८२॥
मन्त्रयति च तद्विषय(ये) न्यग्जातित्वेन याचते च वसु।
लब्ध्वापि लब्धुमिच्छति दुर्मिलिका१४ नाम सा भवति॥ २८३॥
प्रथमानुरागमानप्रवासशृङ्गारसंश्रयं यत् स्यात्।
प्रावृड्वसन्तवर्णनपरमन्यद् वापि सोत्कण्ठम्॥ २८४॥
अन्ते वीररसाढ्यैर्निबद्धमेतच्चतुर्भिरपसारैः।
प्रस्थानमित१५ ब्रुवते प्रवासमुपलक्षयेत् सुधियः॥ २८५॥
आक्षिप्तिकाथ वर्णो मात्रा ध्रुवकोऽथ भग्नतालश्च।