संरम्भवचनं चैव तोटकं समुदाहृतम्॥ २३२॥
राजा—(अञ्जलिं बद्ध्वा), प्रिये वासवदत्ते, प्रसीद।
वासवदत्ता—(अश्रूणि धारयन्ती), अय्यवुत्त ! मा एवं भण। संकंताइ खु एदाइं अण्णस्सि अक्खराइं।
(आर्यपुत्र ! मा एवं भण। संक्रान्तानि खल्विदानीमन्यस्यामक्षराणि।)
राजा—सुन्दरक, कच्चित् कुशलमङ्गराजस्य ?
पुरुषः—कुसलं सरीरमेत्तएण। (कुशलं शरीरमात्रकेण।)