पालीयं चम्पकानां नियतमयमसौ सुन्दरः सिन्धुवारः सान्द्रा वीथी तथेयं बकुलविटपिनां पाटला पङ्क्तिरेषा।
आघ्रायाघ्राय गन्धं विविधमधिगतैः पादपैरेवमस्मिन् व्यक्तिं पन्थाः प्रयाति द्विगुणतरतमोनिह्नुतोऽप्येष चिह्नैः॥ २२७॥
अश्वत्थामा— (अग्रतो विलोक्य), हा हा धिक्कष्टम् ! भो भोः ! प्रतिज्ञाभङ्गभीरुः किरीटी दुर्योधनराधेयौ शरवर्षैरभिद्रवति। सर्वथा पीतं शोणितं दुःशासनस्य भीमेन, इति।
अभ्यर्थनापरं वाक्यं प्रार्थनेत्यभिधीयते १॥ २२८॥
यथा रत्नावल्यां तृतीयेऽङ्के
विदूषकः—भोदि साअरिए ! वीसद्धा भविअ आलव पिअवअस्सं। अज्ज वि दाव से णिच्चरुट्टाए देवीए वासवदत्ताए दुट्ठवअणेहिं कडुइदाइं सोत्ताइं संपदं सुहावेदु तुह महुरवअणोवण्णासो। (भवति सागरिके ! विस्रब्धा भूत्वा आलप प्रियवयस्यम्। अद्यापि तावदस्या नित्यरुष्टया देव्या वासवदत्तायाः दुष्टवचनैः कटुकिते श्रोत्रे साम्प्रतं सुखयतु तव मधुरवचनोपन्यासः।)