भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1001 to 1010 of 2002 verses
राजा—(सपरितोषं) कथं दर्शनमपि भविष्यति, इति।

यथा च वेणीसंहारे तृतीयेऽङ्के, . . .

राजन् दुर्योधन ! महा(न्) x x x x x भवता च कृतपरिकरोऽयं लोकत्रयमुच्छेत्तुं समर्थः, किं पुनरेतद् युधिष्ठिरबलम् ? तदभिषिच्यतां सैनापत्ये।

राजा— सुष्ठुं युज्यमानमभिहितम्; किं तु प्राक्प्रतिपन्नोऽयमर्थो मयाऽङ्गराजस्य, इति ॥ २२२॥

३०. (३.६ संग्रहः)

सामदानार्थसम्पन्नः संग्रहः परिकीर्तितः॥ २२३॥

(नाशा. १९.८०)

यथा रत्‍नावल्यां तृतीयेऽङ्के

राजा— (सहर्षं) (साधु) वयस्य, साधु। इदं च ते पारितोषिकम्। (हस्तादपसार्य कटकं प्रयच्छति)।

यथा च वेणीसंहारे

Showing 1001 to 1010 of 2002 verses