भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 991 to 1000 of 2002 verses
अश्वत्थामा—अङ्गराज ! किमाह भवान्—किमत्र क्रियत इति ? श्रूयतां यद् यत् क्रियते—(वेसं. ३.३१)

यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा।

यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तकोऽहम्॥ २२०॥

२९. (३.५. क्रमः)

भावतत्त्वोपलब्धिस्तु क्रम इत्यभिधीयते॥ २२१॥

(नाशा. १९.७९)

यथा रत्‍नावल्यां तृतीयेऽङ्के —

विदूषकः—(उपसृत्य) भो वअस्स ! दिठ्ठिआ वड्ढसि समीहितब्भदिआऐ कज्जसिद्धीए। (भो वयस्य, दिष्ट्या वर्धसे समीहिताभ्यधिकया कार्यसिद्ध‍या।)

राजा— वयस्य, अपि कुशलं प्रियायाः ?

विदूषकः— अइरेण पेक्खिअ सअं एव्व जाणिस्सिदि भवं। (अचिरेण प्रेक्ष्य स्वयमेव ज्ञास्यति भवान्।)

Showing 991 to 1000 of 2002 verses