कर्णः— अयमभिप्रायः तत् (तस्य ?) स्यात्— अश्वत्थामा मया पृथिवीराज्ये अभिषेक्तव्य इति। तस्यैवाभावाद् वृद्धस्य मे ब्राह्मणस्य वृथा शस्त्रग्रहणमिति तथा कृतवान्।
राजा— साधु, निपुणमुपलक्षितम्। अत एव समर्थोऽपि कुरुकुलक्षय— मुपेक्षितवान् इति।
चित्रार्थसमवाये तु वितर्को रूपमुच्यते॥ २१६॥
यथा रत्नावल्यां तृतीयेऽङ्के
मनश्चलं प्रकृत्यैव दुर्लक्ष्यं च तथापि मे।
कामेनैतत् कथं विद्धं समं सर्वैश्शिलीमुखैः॥ २१७॥