१. 'चातुर्वर्ण्योपगमनंम्' इति नाशा. १९.७७
(इदं भर्तुः प्रसादेन मया क्रीडितमेव। तत् किं कर्णाभरणेन ? अयमपि मे गुरुः प्रसादः यत् किमिति त्वया अहं चित्रफलके आलिखितेति परिकुपिता मे प्रियसखी सागरिका। सा प्रसाद्यताम् इति।)
यथा च वेणीसंहारे कञ्चुकिना रथकेतनपतनम् आवेदिते।
(भानुमती)—अंतरिअदु दाव एदं समत्थपणाणं (बंमणाणं) वेअपथभणि मंगळग्घोसेण इति। (अन्तरीयतां तावदेतत् समर्थब्राह्मणानां वेदध्वनिमङ्गलोद्धोषेण इति।) ॥ २१२॥
(३. गर्भसन्धौ त्रयोदशाङ्गानि)
अथ गर्भाङ्गानि त्रयोदश। तेषु—
अभूताहरणं तत् स्याद् वाक्यं यत् कपटाश्रयम्॥ २१३॥