सुसङ्गता—भट्टा! ण केवलं तुमं, समं चित्तफलएण सव्वो मए वुत्तन्तो विण्णादो। ता गदुअ देवीए णिवेदइस्सं इति। (भर्तः! न केवलं त्वं, समं चित्रफलकेन सर्वो मया वृत्तान्तो विज्ञातः। तद् गत्वा देव्यै निवेदयिष्ये।) इति॥
राजा कञ्चुकिनमाह—आ वृद्धापसद, मरुता रथस्य केतुर्भग्नः। तत्किमाकुलं प्रलपसि इति॥ २१०॥
वर्णितार्थतिरस्कारो वर्णसंहार उच्यते॥ २११॥
विदूषक:— (अपवार्य), भो सव्वं संभाविअदि। मुहरा खु एसा गब्भदासी। ता परिओसेहि णं। (भोः, सर्वं सम्भाव्यते। मुखरा खल्वेषा गर्भदासी। तत् परितोषयैनाम्।)
राजा— युक्तमभिहितम्। सुसङ्गते! क्रीडामात्रमेवैतत्। तथा नाकारणं त्वया देवी खेदयितव्या। तद् गृहाण कर्णाभरणम्।
सुसङ्गता—इदं भट्टिणो पसादेण मए कीलिदं एव्व। ता किं कण्णाभरणेण। अदो वि मे गुरुओ पसादो जं किस्स तए अहं चित्तफळए आळिहिदा त्ति परिकुविदा मे पिअसही साअरिआ। सा पसादिअदु इति।