ईहामृगस्य लक्षणमित्युक्तमिदं मया समासेन॥ २३५॥
वक्ष्याम्यतःपरमहं लक्षणयुक्त्या समवकारम्।
देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव।
त्र्यङ्कस्तथा त्रिकपटस्त्रिविद्रवः स्यात्त्रिशृङ्गारः॥ २३६॥
द्वादशनायकबहुलो ह्यष्टादशनाडिकाप्रमाणश्च।
वक्ष्याम्यस्याङ्कविधिं यावत्यो नाडिका यत्र॥ २३७॥
अङ्कोऽत्र सप्रहसनः सविद्रवः सकपटः सवीथीकः।
द्वादशनाडीयुक्तः प्रथमः कार्यः क्रियोपेतः॥ २३८॥
कार्यस्तथा द्वितीयस्समाश्रितो नाडिकाश्चतस्रस्तु।