व्यायोगस्तत्र बुधैः कार्यः प्रख्यातनायकशरीरः।
अल्पस्त्रीजनयुक्तः स्यादेकाहप्रयोज्यश्च॥ २२६॥
बहवस्तत्र तु पुरुषा व्यायच्छन्ते कथाशरीरवशात्।
न च तत्प्रमाणनियमः किञ्चैकाङ्कौ विधातव्यः॥ २२७॥
न स दिव्यनायककृतः कार्यो राजर्षिनायकनिबन्धः।
युद्धनियुद्धाधर्षणसङ्घर्षयुतश्च कर्तव्यः॥ २२८॥
एवंविधस्तु कार्यो व्यायोगो दीप्तकाव्यरसयोनिः॥ २२९॥
वक्ष्याम्यतः परमहं लक्षणमीहामृगस्यापि।