व्यत्ययवती यथा—(गास. २.६)
जो तीअ अहरराओ रत्तिं उव्वासिओ पिअअमेण।
सो च्चिअ दीसइ गोसे सवत्तिणअणेषु संकंतो॥ २५९॥
(यस्तस्या अधररागो रात्रावुद्वासितः प्रियतमेन।
स एव दृश्यते प्रातः सपत्नीनयनेषु संक्रान्तः॥)
कुमुदवनमपश्रि श्रीमदम्भोजषण्डं त्यजति मुदमुलूकः प्रीतिमाँश्चक्रवाकः।
उदयमहिमरशिर्याति शीतांशुरस्तं हतविधिलसितानां ही विचित्रो विपाकः॥२६०॥
विनिमयवती यथा—(किराता. ७.३५)
प्रश्च्योतन्मदसुरभीणि निम्नगायाः क्रीडन्तो गजपतयः पयांसि कृत्वा।