किञ्जल्कव्यतिकरताम्रदानलेखैरुत्तेरुः सरसिजगन्धिभिः कपोलैः॥ २६१॥
तस्य च प्रवयसो जटायुषः स्वर्गिणः किमिह शोच्यतेऽधुना।
येन जर्जरकलेबरव्ययात् क्रीतमिन्दुकिरणोज्ज्वलं यशः॥ २६२॥
उभयवती यथा—(किराता. ९.६०)
लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा।
वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं नु वितेने॥ २६३॥
किं चित्रं यदि देवेन भूभृतः करदीकृताः।
देवोऽपि दापितः किं तैर्न पुनः पृष्ठतः करम्॥ २६४॥