भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 931 to 940 of 1676 verses
लक्ष्म्यावास ! मनस्विनीमनसिजव्यापारलीलागुरे ! श्रीमन्मुञ्ज ! किमित्यमुं जनमुपस्प्रष्टुं दृशा नार्हसि॥ २१७॥

१३. सुप्‍तिङ्व्युत्पत्तिः सुशब्दता, यथा—

तस्याजीवनिरस्तु मातरवमा जीवस्य मा जीवतो भूयाद् वा जननिः किमम्ब ! जनिना जन्तोर्वृथा जन्मनः।

यस्त्वामेव न वन्दते न यजते नोपैति नालोकते नोपस्तौति न मन्यते न मनुते नाध्येति नो ध्यायति॥ २१८॥

१४. अन्यधर्मस्यान्यत्रारोपणं समाधिः, यथा—

प्रतीच्छत्याशोकीं किसलयपरावृत्तिमधरः कपोलः पाण्डुत्वादवतरति तालोपरिणतिम्।

परिम्लानप्रायामनुवदति दृष्टिः कमलिनीं नवीनस्तन्वङ्ग्या मनसिजविकारो विजयते॥ २१९॥

१५. शब्दानामन्तः सञ्जल्परूपता सौक्ष्म्यम्, यथा—(माघ. १८.६६)

केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि।

धातवः सृजतिसंहृशास्तयः स्तौतिरत्र विपरीतकारकः॥ २२०॥

Showing 931 to 940 of 1676 verses