१६. ध्वनिमत्ता गाम्भीर्यम्, यथा—
मौलौ धारय पुण्डरीकममितं तन्वात्मनो विक्रमं चक्राङ्कं वह पादयुग्ममवनीं दोष्णा समभ्युद्धर।
लक्ष्मीं भ्रूनिकटे निवेशय भव ज्यायान् दिवौकस्पतेः विश्वान्तःकरणैकचोर ! तदपि ज्ञातो हरिः खल्वसि॥ २२१॥
१७. व्यासाभिधानं विस्तरः यथा—
जनः पुण्यैर्यायाज्जलधिजलभावं जलमुचः तथावस्थं चैनं निदधतु शुभैः शुक्तिवदने।
ततस्तां श्रेयोभिः परिणतिमसौ विन्दतु यया रुचिं तन्वन् पीनस्तनि ! हृदि तवायं विलुठति॥ २२२॥
१८. समासाभिधानं संक्षेपः, यथा—(रघु. १२.७८)
स मारुतिसमानीतमहौषधिहतव्यथः।
लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः॥ २२३॥
१९. यावदर्थपदता सम्मितत्वम्, यथा—