केचिद् वास्तुनि नो वाचि, केचिद् वाचि न वस्तुनि।
वाचि वस्तुनि चाप्यन्ये, नान्ये वाचि न वस्तुनि॥ २२४॥
२०. भावतो वाक्प्रवृत्तिर्भाविकत्वम्, यथा—(म.वी.च. १.५५)
एह्येहि वत्स! रघुनन्दन! रामचन्द्र! चुम्बामि मूर्धनि चिरं च परिष्वजे त्वाम्।
आरोप्य वा हृदि दिवानिशमुद्वहामि वन्देऽथवा चरणपुष्करकद्वयं ते॥
२१. आरोहावरोहक्रमो गतिः, यथा—
वराहः कल्याणं वितरतु स वो यस्य शशभृ— त्कलाकोटीकान्तं क्रमविगलदभ्युद्धृतिभिया।
मिथः संमूर्छद्भिश्चतुरुदधि—कल्लोल—पटलै— रनामृष्टं दंष्ट्राशिखरमधिशेते वसुमती॥ २२६॥
२२. उपक्रमाभेदो रीतिः, यथा—
ग्राव्णा नासि गिरेः क्षता न पयसा नार्तासि न म्लापिता न श्वासैः फणिनोऽसि न त्वदनुगा नायासिता कापि न।