भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 961 to 970 of 1676 verses
स्वं वेश्म प्रति गच्छतोरिति मुहुः श्रीशार्ङ्गिणोः सस्पृहं सा प्रश्नोत्तरयुग्मपङ्क्तिरुभयोरत्यायता पातु वः॥ २२७॥

२३. भणितिविशेष उक्तिः, यथा—

कुशलं तस्याः जीवति, कुशलं पृच्छामि, जीवतीत्युक्तम्।

पुनरपि तदेव कथयसि, मृतां नु कथयामि या श्वसिति॥ २२८॥

२४. उक्तिपरिपाकः प्रौढिः, यथा—

अभ्युद्ध‍ृता वसुमती दलितं रिपूरः क्षिप्‍तक्रमं कबलिता बलिराजलक्ष्मीः।

अत्रैकजन्मनि कृतं तदनेन यूना जन्मत्रये यदकरोत् पुरुषः पुराणः॥

(२. अर्थगुणाः —२४)

अर्थगुणा अप्येत एव चतुर्विंशतिः। तेषु —

१. संविधान(सु)सूत्रता श्लेषः, यथा—

Showing 961 to 970 of 1676 verses