भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 981 to 990 of 1676 verses
अन्तर्बाष्पजडीकृतं प्रभुतया चक्षुर्न विष्फारितं कोपश्च प्रकटीकृतो दयितया मुक्तश्च न प्रश्रयः॥ २३३॥

५. अनिष्ठुरता सौकुमार्यम्, यथा—(बा.रा. ६.३४)

सद्यः पुरीपरिसरेऽपि शिरीषमृद्वी गत्वा जयात् त्रिचतुराणि पदानि सीता।

गन्तव्यमद्य कियदित्यसकृद् ब्रुवाणा रामाश्रुणः कृतवती प्रथमावतारम्॥

६. स्वरूपाभिधानमर्थव्यक्तिः, यथा—

पृष्ठेषु शङ्खशकलच्छविषु च्छदानां राजीभिरङ्कितमलक्तकलोहिताभिः।

गोरोचनाहरितबभ्रुबहिः पलाशमामोदते कुमुदमम्भसि पल्वलस्य॥

७. दीप्‍तरसत्वं कान्तिः, यथा—

मा गर्वमुद्वह कपोलतले चकास्ति कान्तस्वस्तलिखिता मम मञ्जरीति।

अन्यापि किं सखि न भाजनमीदृशानां वैरी न चेद् भवति वेपथुरन्तरायः॥

Showing 981 to 990 of 1676 verses