उमा वधूर्भवान् दाता याचितार इमे वयम्।
वरः शम्भुरलं ह्येष त्वत्कुलोद्भूतये विधिः॥ २४०॥
१२. अर्थस्याभीष्टता प्रेयः, यथा—
रसवदमृतं कस्सन्देहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम्।
सकृदपि पुनर्मध्यस्थस्सन् रसान्तरविज्जनो वदतु यदिहान्यत् स्वादु स्यात् प्रियादशनच्छदात्॥ २४१॥
१३. दारुणार्थस्यादारुणार्थपर्यायस्सुशब्दता, यथा—
देवव्रते वाञ्छति दीर्घनिद्रां द्रोणे च कर्णे च यशोऽवशेषे।
लक्ष्मीसहायस्य तवाद्य वत्स! वात्सल्यवान् द्रौणिरयं सहायः॥ २४२॥
१४. व्याजावलम्बनं समाधिः, यथा—(शाकु. २.१३)
दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा।