आसीद् विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम्॥ २४३॥
१५. सूक्ष्मार्थदृष्टिः सौक्ष्म्यम्, यथा—
अन्योन्यसंवलितमांसलदन्तकान्ति सोल्लासमाविरलसं वलितार्धतारम्।
लीलागृहे प्रतिकलं किलकिञ्चितेषु व्यावर्तमानविनयं मिथुनं चकास्ति॥
१६. शास्त्रार्थसव्यपेक्षता गाम्भीर्यम्, यथा—(माघ. ४.५५)
मैत्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः।
ख्यातिं च सत्त्वपुरुषान्यतयाधिगम्य वाञ्छन्ति तामपि समाधिभृतो निरोद्धुम्॥ २४५॥
१७. अर्थविकासो विस्तरः, यथा—
संग्रामाङ्गणसङ्गतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद् यत्समासादितम्।
कोदण्डेन शराश्शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च सप्ताब्धयः॥ २४६॥