भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1011 to 1020 of 1676 verses
आसीद् विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम्॥ २४३॥

१५. सूक्ष्मार्थदृष्टिः सौक्ष्म्यम्, यथा—

अन्योन्यसंवलितमांसलदन्तकान्ति सोल्लासमाविरलसं वलितार्धतारम्।

लीलागृहे प्रतिकलं किलकिञ्चितेषु व्यावर्तमानविनयं मिथुनं चकास्ति॥

१६. शास्त्रार्थसव्यपेक्षता गाम्भीर्यम्, यथा—(माघ. ४.५५)

मैत्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः।

ख्यातिं च सत्त्वपुरुषान्यतयाधिगम्य वाञ्छन्ति तामपि समाधिभृतो निरोद्ध‍ुम्॥ २४५॥

१७. अर्थविकासो विस्तरः, यथा—

संग्रामाङ्गणसङ्गतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद् यत्समासादितम्।

कोदण्डेन शराश्शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च सप्‍ताब्धयः॥ २४६॥

Showing 1011 to 1020 of 1676 verses