भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1031 to 1040 of 1676 verses
शुभे कोऽयं वृद्धो गृहपरिबृढः किं तव पिता न मे भर्ता रात्रौ व्यपगतदृगन्यच्च बधिरः।

हुहुंहुं श्रान्तोऽहं शिशयिषुरिहैवापवरके क्‍व यामिन्यां यासि स्वपिहि ननु निर्दंशमशके॥ २५०॥

२२. अर्थोत्पत्त्यादिक्रियाक्रमो रीतिः, यथा—

प्रथममरुणच्छायस्तावत्ततः कनकप्रभ— स्तदनुविरहोत्ताम्यत्तन्वीकपोलतलद्युतिः।

प्रभवति पुनर्ध्वान्तध्वंसक्षमः क्षणदामुखे सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः॥ २५१॥

२३. भङ्ग्या इष्टाभिधानमुक्तिः, यथा—

त्वमेवंसौन्दर्या स च रुचिरतायां परिचितः कलानां सीमानं परमिह युवामेव भजथः।

अपि द्वन्द्वं दिष्ट्या तदिति सुभगे् संवदति वा— मतः शेषं चेत् स्याज्जितमिह तदानीं गुणितया॥ २५२॥

२४. विवक्षितार्थनिर्वहणं प्रौढिः, यथा—

त्वद्वक्त्रेन्दुविलोकनाकुलधिया धात्रा त्वदीयां श्रियं निक्षिप्य प्रतिराजकेषु विदुषां लक्ष्म्या त्वमापूरितः।

Showing 1031 to 1040 of 1676 verses