भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1041 to 1050 of 1676 verses
तेनैते नियतं दरिद्रति गृहेष्वेषामियं दृश्यते नैनामाद्रियसे त्वमिच्छसि तु तां त्वामेव सा धावति॥ २५३॥

(३. दोषगुणाः)

पदादिदोषाणामनुकरणादिषु गुणत्वापत्तये दोषगुणाः। तेऽपि प्राग्वदेव त्रिविधा अपि प्रत्येकं चतुर्विंशतिधा। तत्र — पददोषेषु —

(पददोषानामदोषत्वम्)

१. असाधोर्म्लिष्टम्लेच्छितादेरनुकरणे गुणत्वं, यथा—

उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या।

हुंहुं मुञ्च मममेति च मन्दं जल्पितं जयति मानवतीनाम्॥ २५४॥

२. अनुकरण एवाप्रयुक्तस्य गुणत्वं, यथा—(मभा. ३.१.४८)

दिवं पत्काषिणो यान्ति येऽचीकमत भाषिणः।

पत्काषिणोऽपि नो यान्ति ये वचन्ति प्रयुञ्जते॥ २५५॥

Showing 1041 to 1050 of 1676 verses