कपाले मार्जारः पय इति कराँल्लेढि शशिन— स्तरुच्छिद्रप्रोतान् बिसमिति करी संकलयति।
रतान्ते तल्पस्थान् हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति॥ २८९॥
भ्रान्तिमाला यथा—(सक. ३.११५)
नीलेन्दीवरशङ्क्या नयनयोर्बन्धूकबुद्धयाधरे पाणौ पद्मधिया मधूककुसुमभ्रान्त्या तथा गण्डयोः।
लीयन्ते कबरीषु बान्धवकुलव्यामोहजातस्पृहा दुर्वारा मधुपाः कियन्ति भवती स्थानानि रक्षिष्यति॥ २९०॥
उपमाभ्रान्तिर्यथा—(विक्रमो. ४.७)
हृतोष्ठरागैर्नयनोदबिन्दुभिर्निमग्ननाभेर्निपतद्भिरङ्कितम् ।
च्युतं रुषा भिन्नगतेरसंशयं शुकोदरश्याममिदं स्तनांशुकम्॥ २९१॥
भ्रान्त्यतिशयो यथा—(सक. ३.११७)
दिश्याद् धूर्जटिजूटकोटिसरिति ज्योत्स्नालवोद्भासिनी शाशाङ्की कलिका जलभ्रमिवशाद् द्राग्दृष्टनष्टा मुदम्।