यां चञ्चच्छफरीभ्रमेण मुकुलीकुर्वन् फणालीं मुहु— र्मुह्यँल्लक्ष्यमहिर्जिघृक्षतितमामाकुञ्चनप्राञ्चनैः ॥ २९२॥
अनध्यवसायोऽपि भ्रान्तिरेव। यथा—(सक. ३.११९)
उभौ रम्भास्तम्भावुपरि विपरीतौ कमलयो— स्तदूर्घ्वं रत्नाश्मस्थलमथ दुरूहं किमपि तत्।
ततः कुम्भौ पश्चाद् बिसकिसलये कन्दलमये तदन्विन्दाविन्दीवरमधुकराः किं पुनरिदम्॥ २९३॥
विरहिणिजणह दअंतेण णावइ तक्खणि छाइज्जइ अलिणिवहेहिं चेत्तेण चूअवणी।
तह तासु वि मअरंदेहिं संदाणिअइ जह ण क्लंबु ण अंबु ण जंबू जाणिअइ॥ २९४॥
(विरहिणीजनस्य दयमानेन प्रतिभाति ननु तत्क्षणे छाद्यतेऽलिनिवहैश्चैत्रेण चूतवनी।
तथा तास्वपि मकरन्दैः सन्दान्यते यथा न कदम्बो नाम्रो न जम्बूर्ज्ञायते॥)