अत्र गृहे हलिकवधूरेतावन्मात्रस्तनी वसति॥)
एतेन प्रतिबिम्बमुद्रालेख्यादयो व्याख्याताः। तेषु —
प्रतिबिम्बो यथा—(कुसं. ८.११)
दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः।
वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कान्यपि चकार लज्जया॥ २९८॥
मुद्रा यथा—(किराता. १०.७)
सचकितमिव विस्मयाकुलाभिः शुचिसिकतास्वतिमानुषाणि ताभिः।
क्षितिषु ददृशिरे जिष्णोरुपहितकेतुरथाङ्गलाञ्छनानि॥ २९९॥
तवालेख्ये कौतूहलतरलतन्वीविरचिते विधायैका चक्रं रचयति सुपर्णासुतमपि।