द्विपथकमार्गणिके च स्यातामथ सप्तमे शृणुत॥ २९६॥
रध्वा/थ्याथ भग्नतालश्शुद्धे भाणे क्रमः प्रदिष्टोऽयम्।
सङ्कीर्णभाणभणितिः कार्या स्यादुभयसंयोगात्।
किञ्चिदनुद्धतभावात् तालक्रमवर्जनाच्च चित्रोऽयम्॥ २९७॥
इति शुद्धः संकीर्णश्चित्रश्च मतस्त्रिधा भाणः।
यदि वैष शुद्धवाचा शुद्धः संकीर्णयाथ संकीर्णः॥ २९८॥
सर्वाभिर्भाषाभिश्चित्रैश्च विचेष्टितैश्चित्रः।
अयमुद्धतोऽथ ललितो भाणो ललितोद्धतश्च सम्भवति॥ २९९॥
अर्थानामौद्धत्याल्लालित्यादुभयभावाच्च।
यद् दुष्करमभिनेयं चित्रं चात्युद्भटं च यद् भवति।