तद्भाणकेऽभिधेय१७ युतमनुतालैर्वितालैश्च॥ ३००॥
सोऽत्रैवान्तर्भाव्यो यो भाणो नन्दिमालिनामा स्यात्।
भिन्नः कैश्चित् कथितो भरतमतं सम्यगविदित्वा॥ ३०१॥
आकाशपुरुषमुद्दिश्य वस्तु यत् पठ्यतेऽथवा क्रियते।
विश्लिष्टोद्भटभावप्रयोगमिह नन्दिमाली सः॥ ३०२॥
प्रायो हरिचरितयुता स्वीकृतगाथादिवर्णमात्रा च।
सुकुमारतः प्रयोगाद् भाणोऽपि हि भाणिका१८ भवति॥ ३०३॥
दिव्याभिश्चारीभिर्विवर्जिता ललितकरणसंयुक्ता।
तालान्तरालनृत्ता क्वचिदपि रध्वा/यादिसङ्कलिता॥ ३०४॥
अर्धोद्ग्राहनिवारणगायनसहवचनमत्तपालीभिः।