शङ्का भयत्रासकृतो विद्रवः समुदाहृतः॥ २३८॥
विदूषकः— उच्चै भो वअस्स, परित्ताहि परित्ताहि। एसा क्खु देवी वासवदत्ता अप्पाणं उब्बंधिअ वावादिअदि। (भो वयस्य, परित्रायस्व, परित्रायस्व ! एषा खलु देवी वासवदत्ता आत्मानमुद्वध्य व्यापादयति।)
राजा— (ससम्भ्रममुपसृत्य) वयस्य, क्वासौ क्वासौ ?
विदूषकः— हो एसा। (अहो एषा !)
राजा—अयि किमिदमकार्यं क्रियते ? ॥ २३९॥
मम कण्ठगताः प्राणाः पाशे कण्ठगते तव।
अनर्थार्थः प्रयासोऽयं त्यज्यतां साहसं प्रिये॥ २४०॥