दोषप्रख्यापनं यत् स्यात् सोऽपवादः प्रकीर्त्तितः॥ २४२॥
यथा रत्नावल्यां तृतीयेऽङ्के राज्ञि प्रियं वदत्यपि सागरिका—अय्यउत्त ! किं एदिणा अलीअदाक्खिण्णेण जीविदादो वि वल्लहतराए देवीए अत्ताणअं अवराहिणं करेसि ? (आर्यपुत्र ! किं एतेन अलीकदाक्षिण्येन जीवितादपि वल्लभतरायाः देव्याः आत्मानमपराधिनं करोषि ?।)
राजा—अयि ! मिथ्यावादिनी खल्वसि। कुतः—(रत्ना. ३.१७)
श्वासोत्कम्पिनि कम्पितं कुचयुगे मौने प्रियं भाषितं वक्त्रेऽस्याः कुटिलीकृतभ्रुणि रुषा यातं मया पादयोः।
इत्थं नः सहजाभिजात्यजनिता सेवैव देव्याः, परं प्रेमाबन्धविवर्धिताधिकरसा प्रीतिस्तु या सा त्वयि॥ २४३॥
यथा च वेणीसंहारे युधिष्ठिरः—(वेसं. ६.१)
तीर्णे भीष्ममहोदधौ कथमपि द्रोणानले निर्वृते कर्णाशीविषभोगिनि प्रशमिते शल्ये च याते दिवम्।
भीमेन प्रियसाहसेन रभसादल्पावशेषे जये सर्वे जीवितसंशयं वयममी वाचा समारोपिताः॥ २४४॥