पाञ्चालकः—न केवलं पदवी, स एव दुरात्मा देवीकेशाम्बराकर्षणमहापातक— प्रधानहेतुरुपलब्धः, इति ॥ २४६॥
गुरुव्यतिक्रमो यस्तु स द्रवः परिकीर्तितः॥ २४७॥
यथा रत्नावल्यां तृतीयेऽङ्के—
विदूषकः—होदि ! तुमं एव्व उब्बंधिअ अत्ताणअं विवज्जिहिसि त्ति करिअ वेससारिस्समोहिदेण मए वयस्सो इह आणीदो। (भवति ! त्वमेव उद्वध्यात्मानं विपत्स्यसे इति कृत्वा वेषसादृश्यमोहितेन मया वयस्य इहानीतः)। लतापाशं दर्शयति। किं ण पेक्खदि होदि इमं। (किं न प्रेक्षते भवती इदम् ?)
वासवदत्ता—कंचणमाले एदेण एव्व लदावासेण बंधिअ आणेहि बंहबंधुअं। (अङ्गुल्या तर्जयन्ती) एदं वि दुव्विणीअं अग्गदो करेहि। काञ्चनमाले ! एतेनैव लतापाशेन बद्ध्वा आनय ब्रह्मबन्धुम्। एतामपि कन्यकां दुर्विनीताम् अग्रतः कुरु।
काञ्चनमाला—जं भट्टिणी आणवेदि। यद् भट्टिनी आज्ञापयति। इति विदूषकं बध्नाति।
युधिष्ठिरः—(द्रौपदीमवलोक्य, मुखादस्याः बाष्पमपनीय) अयि सुक्षत्रिये ! ॥ २४८॥