न पदैरभिधीयन्ते ह्यनुकार्यानुरूपिणः॥ ३१५॥
कामिनीभिर्भुवो भर्तुश्चेष्टितं यत्तु नृत्यते।
रागाद् वसन्तमासाद्य स ज्ञेयो नाट्यरासकः२४॥ ३१६॥
चर्चरीति च तामाहुर्वर्णतालेन तत्र तु।
प्रविशेत् कामिनीयुग्मं समचार्यदिशिक्षितम्॥ ३१७॥
वामदक्षिणसञ्चारैरङ्गैस्तेन परिष्कृतम्।
ततस्तदेव वर्णं तदालीढद्वयसंस्थितम्॥ ३१८॥
छोटिकाभिर्द्रुतं तालं वादकानां प्रदर्शयेत्।
पञ्चघातकसंज्ञोऽर्थश्छेदः तस्मात् प्रवर्तते॥ ३१९॥
नृत्तेन विभजेत् खण्डैश्चतुर्भिस्त्रिभिरेव वा।