अन्योन्याङ्किसञ्चारैर्हस्ततालैर्मिथः कृतैः॥ ३२०॥
परिक्रम्य च निष्क्रामेत् ततोऽन्यद् द्वितयं विशेत्।
एककालं तु निस्सन्धिप्रवेशो निर्गमस्तयोः॥ ३२१॥
पुष्पाञ्जलिप्रयोगं तु मात्रातालेन योजयेत्।
उभयोः पार्श्वयोः पश्चात् पात्राणि प्रविशन्ति च॥ ३२२॥
यद् दार्पणकतालेन रथ्यावर्णादिवर्णकैः।
शुष्कगीतप्रयोगं तु ततो गायन्ति गायनाः॥ ३२३॥
लताख्यैर्भेद्यकैर्गुल्मैर्नानावृ/नृत्तप्रदर्शकैः ।
पात्रैरेकत्र संयुक्तं पिण्डीबन्धं तु कारयेत्॥ ३२४॥
ततो वलिनिकातालं शुष्कवर्णप्रयोगतः।