प्रमाणरूपो हेतुर्ज्ञापकः। यथा—(काव्याद. २.२४५)
अवध्यैरिन्दुपादानामसाध्यैश्चन्दनाम्भसाम् ।
देहोष्मभिः सुबोधं ते सखि ! कामातुरं मनः॥ ३१०॥
यदि वा उपात्तव्यापारोऽनुमानहेतुः यथा—(सक. २.२८)
एतानि निस्सहतनोरसमञ्जसानि शून्यं मनः पिशुनयन्ति पदानि तस्याः।
एते च मार्गतरवः कथयन्ति तापमालम्बितोज्झितपरिग्लपितैः प्रवालैः॥
अनुपात्तव्यापारो ज्ञापकः। स त्रिधा—त्रिकालार्थविषयभेदात्। तेषु भूतार्थविषयो यथा—(काव्याद्. २.१२)
कण्ठेकालः करस्थेन कपालेनेन्दुशेखरः।
जटाभिः स्निग्धताम्राभिराविरासीद् वृषध्वजः॥ ३१२॥