पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत्॥ ३१६॥
गोनासाय नियोजितागदरजाः सर्पाय बद्धौषधिः कण्ठस्थाय विषाय वीर्यमहते पाणौ मणीन् बिभ्रती।
भर्तुर्भूतगणाय गोत्रजरतीनिर्दिष्टमन्त्राक्षरा रक्षत्वद्रिसुता विवाहसमये प्रीता च भीता च वः॥ ३१७॥
प्रत्यक्षाद्यधिगतोऽर्थस्तथानुपपद्यमानोऽर्थान्तरं गमयतीत्यर्थापत्तिः। यथा—
निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि।
अन्यथानुपपत्त्यैव पयोधरभरस्थितेः॥ ३१८॥