गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे॥ ३२१॥
न कञ्चिदवमन्येत सर्वस्य शृणुयान्मतम्।
बालस्याप्यर्थवद् वाक्यमुपयुञ्जीत पण्डितः॥ ३२२॥
निवार्यतामालि ! किमप्यसौ वटुः पुनर्विवक्षुः स्फुरितोत्तराधरः।
न केवलं यो महतां विभाषते शृणोति तस्मादपि यः स पापभाक्॥ ३२३॥
ऐन्द्रियं मानसं वा ज्ञानं प्रत्यक्षम्। यथा—(माघ. १०.३)