क्रान्तकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ।
स्वादुनि प्रणदितालिनि शीते निर्ववार मधुनीन्द्रियवर्गः॥ ३२४॥
पश्यामि तामित इतश्च पुरश्च पश्चादन्तर्बहिः परित एव च वर्तमानाम्।
उद्बुद्धमुग्धकनकाब्जनिभं वहन्तीमासङ्गितिर्यगपवर्तितदृष्टि वक्त्रम्॥ ३२५॥
इमाश्चतुर्विंशतिरर्थसंश्रयाः पृथग्विभक्ताः कविभिः स्वलङ्क्रियाः।
श्रुतीतिहासप्रभवान् विशेषतो महाप्रबन्धानुपकर्तुमीशते॥ ३२६॥
अनेकधाऽयं कविभिश्चिरन्तनैः प्रपञ्चितो भामह—वामनादिभिः।
यतोऽत्र जात्यादिरलंक्रियागणोऽभिधेयतस्तेन कृतो न विस्तरः॥ ३२७॥
अथोभयालंकृतयो मनोहराः प्रपञ्चिता यद्यपि पूर्वसूरिभिः।