प्रथमा यथा—(रुद्रटा. ८.१८)
मुखमिन्दुसुन्दरं ते बिसकिसलयकोमले भुजालतिके।
जघनस्थली च सुन्दरि तव शैलशिलाविशालेयम्॥ ३२९॥
चन्दसरिसं मुहं से अमअसरिच्छो अ मुहरसो तिस्सा।
सकअग्गहरहसुज्जलचुंबनअं कस्स सरिसं से॥ ३३०॥
(चन्द्रसदृशं मुखं तस्या अमृतसदृक्षश्च मुखरसस्तस्याः।
सकचग्रहरभसोज्ज्वलचुम्बनकं कस्य सदृशं तस्याः॥)
कमलकरा रम्भोरू कुवलअणअणा मिअंकवअणा सा।