सङ्घातस्स निगदितो बृन्दावनमेघदूतादि॥ ३५४॥
यस्यां सन्धीयन्ते मनीषिभिर्विप्रकीर्णवृत्तान्ताः।
सा संहितेति गदिता यदुवंशदिलीपवंशादि॥ ३५५॥
यस्मिन्नशेषविद्यास्थानार्थविभूतयः प्रकाशन्ते।
संहत्य स साहित्यप्रकाशः १एतादृशो भवति॥ ३५६॥
१. एतादृश शृङ्गारप्रकाशसदृशः।
एतस्मिन् हि शृङ्गारप्रकाशे सुप्रकाशमेवाशेषशास्त्रार्थसम्पदुपनिषदाम् अखिलकलाकाव्यौचित्यकल्पनारहस्यानां च सन्निवेशो दृश्यते।
अथैतेषामुभयेषामपि प्रबन्धस्कन्धभेदानामवैशेषिको वैशेषिकश्च गुणालङ्कार— लक्षणयोगो रसावियोगहेतुर्भवति। तत्र
गुणो द्वेधा — शब्दगुणोऽर्थगुणश्च।
अलङ्कारोऽपि शब्दालङ्कारोऽर्थालङ्कारश्च। ताभ्यामुभयगुणालङ्कारा व्याख्यातः(ताः)।