वाच्यस्स सन्धिबन्धश्चतुर्मुखोक्ताब्धिमथनादि॥ ३४९॥
य इह द्विचारिकावाग्ग्राम्यगिरा गीयते गभीरोक्तः।
सोऽवस्कन्धकबन्धोऽभिधीयते भीमकुल्यादि॥ ३५०॥
यत्रार्थश्शास्त्राणां काव्येऽभिनिवेश्यते महाकविभिः।
तद्भट्टिकाव्यमुद्राराक्षसवत् काव्यशास्त्रं स्यात्॥ ३५१॥
शास्त्रं यत्र कवीनां रहस्यमुपकल्पयन्त्यनल्पधियः।
तद्रतिविलासकामन्दकीयवच्छास्त्रकाव्यं तु॥ ३५२॥
कोश इव यः सुभाषितरत्नसमूहात्मकः समुद्ध्रियते।
महतः काव्याम्भोधेः स कोश इह सप्तशतिकादि॥ ३५३॥
एकप्रघट्टके यस्त्वेककृतो भवति सूक्तिसमुदायः।