कादम्बरीव लीलावतीव वा सा कथा कथिता॥ ३३९॥
पर्यायेण बहूनां यत्र प्रतियोगिनां कथाकुशलैः।
श्रूयन्ते शूद्रकवज्जिगीषुभिः परिकथा सा तु॥ ३४०॥
ग्रन्थान्तरप्रसिद्धं यस्यामितिवृत्तमुच्यते विबुधैः।
मध्यादुपान्ततो वा सा खण्डकथा यथेन्दुमती॥ ३४१॥
यत्राश्रित्य कथान्तरमतिप्रसिद्धं निबध्यते कविभिः।
चरितं विचित्रमन्यत् सोपकथा चित्रलेखादि॥ ३४२॥
लम्भाङ्किताद्भुतार्था पिशाचभाषामयी महाविषया।
नरवाहनदत्तादेश्चरितमिव बृहत्कथा भवति॥ ३४३॥
याऽऽख्यायिकैव साङ्का सोच्छ्वासा दिव्यपद्यगद्यमयी।