आलम्ब्य प्रियशिष्यतां तु हलिना संज्ञा रहस्याहिता
यामासाद्य कुरूत्तमः प्रतिकृतिं दुश्शासनारौ गतः॥ २५९॥
अप्रस्तुतार्थवचनं२ प्रसङ्गः परिकीर्तितः॥ २६०॥
वासवदत्ता—हला कंचणमाले! उज्जइणीए आअदो त्ति अत्थि मे एदस्सिं इंदजालिए वक्खवादो। (हला काञ्चनमाले, उज्जयिन्या आगत इत्यस्ति मे एतस्मिन् ऐन्द्रजालिके पक्षपातः।)
१. मेतद्दत्तं मनोमेष दत्तः क्षणो—जो., मूलं HOS. २. प्रसङ्गश्चैव विज्ञेयो गुरूणां परिकीर्त्तनम्। नाशा. १९.८६
काञ्चनमाला—भट्टिणि, णाइकुलवहुमाणो खु एसो।