युधिष्ठिरः—(अश्रूणि विमुञ्चन्)
सर्वथा कथय ब्रह्मन् संक्षेपाद् विस्तरेण वा।
वत्सस्य किमपि श्रोतुमेतद्दत्तं मनो१ मया॥ २५६॥ (वेसं.६.१५)
तस्मिन् कौरवपार्थयोर्गुरुगदाघोरध्वनौ संयुगे॥ २५७॥
द्रौपदी—(लब्धसंज्ञा) तदो किं? (ततः किम्?)
राक्षसः—(आत्मगतम्) कथं पुनरप्यनया लब्धा संज्ञा? अयमपहराम्यस्याः प्राणान्।
सीरी तत्क्षणमागतश्चिरमभूत् तस्याग्रतः सङ्गरः॥ २५८॥
कञ्चुकी—नूनं तत्कुतोऽत्र कश्चिदपराद्धो भविष्यति?