(भट्टिनि, ज्ञातिकुलबहुमानः खलु एषः।)
युधिष्ठिरः—हा तात भीम हा कान्तारबान्धव, हा जतुगृहसमुद्रतरणयानपात्र, हा किर्मीरजटासुरजरासन्धप्रतिमल्ल, हा कीचकसुयोधनानुज— शतकनलिनीवनप्रालेयवर्ष!॥ २६१॥
निर्लज्जस्य दुरोदरव्यसनिनो वत्स! त्वया सा तदा भक्त्या मे समदद्विपायुतबलेनाङ्गीकृता दासता।
किं नामापकृतं मयाऽधिकमतस्त्वय्यद्य यद् गम्यते मुक्त्वाऽनाथमबान्धवं सपदि मां प्रीतिः क्व ते साऽधुना॥ (वेसं. ६.१७)
द्रौपदी—महाराअ, किं णेदं? (महाराज, किं न्विदम् ?)
स कीचकनिषूदनो बकहिडिम्बकिर्मीरहा मदान्धमगधाधिपद्विरदसन्धिभङ्गाशनिः ।
गदापरिघशोभिना भुजयुगेन तेनान्वितः प्रियस्तव ममानुजोऽर्जुनगुरुर्गतोऽस्तं किल॥ २६३॥ इति।