मनश्चेष्टाविनिष्पन्नः श्रमः खेद उदाहृतः॥ २६७॥
राजा—आर्य वसुभूते! अपि कुशलं तत्रभवतः सिंहलेश्वरस्य ?
वसुभूतिः—(ऊर्ध्वमवलोक्य, निःश्वस्य च) देव! न जाने किं विज्ञापयामि।
वासवदत्ता—(सविषादमात्मगतम्) हद्धि, किं दाणीं वसुभूदी कथइस्सदि, किं भविस्सिदि त्ति संसए वट्टामि।
(हा धिक्, किमिदानीं वसुभूतिः कथयिष्यति ? किं भविष्यति इति संशये वर्ते।)
राजा—कथय, किमिति पर्याकुलोऽसि ?
बाभ्रव्यः— (अपवार्य) अमात्य, सुचिरमपि स्थित्वा कथनीयमेवैतत्। कथ्यताम्।
वसुभूतिः—देव, शक्यते कथयितुम्। तथाप्येष मन्दभाग्यः कथयामि। या सा तत्रभवता सिंहलेश्वरेण स्वदुहिता रत्नावली नाम आयुष्मतीं देवीं दग्धां वासवदत्तामुपश्रुत्य देवाय पूर्वं प्रार्थिता सती दत्ता—