यथा रत्नावल्यां चतुर्थेऽङ्के
राजा— देवि, समाश्वसिहि समाश्वसिहि। दुरवबोघा गतिर्दैवस्य। नन्वेतावेव वहनभङ्गेऽप्यभग्नौ बाभ्रव्यवसुभूती निदर्शनम्।
वासवदत्ता—अय्यउत्त, जुज्जइ एदं। कुदो उण मम एत्तिआ भाअधेया। (आर्यपुत्र, युज्यत एतत्। कुतः पुनः ममैतावद्भागधेयम् ?)
राजा— (वसुभूतिमपवार्य) बाभ्रव्य, किमेतत्? सर्वं नावगच्छामि।
बाभ्रव्यः— देव, श्रूयताम्॥ २७१॥
हर्म्याणां हेमशृङ्गश्रियमिव निचयैरर्चिषामादधानः सान्द्रोद्यानद्रुमाग्रग्लपनपिशुनितात्यन्ततीव्राभितापः।
कुर्वन् क्रीडामहीध्रं सजलजलधरश्यामलं धूमपातै— रेष प्लोषार्तयोषिज्जन इह सहसैवोत्थितोऽन्तःपुरेऽग्निः॥ २७२॥
(सर्वे ससम्भ्रममुत्तिष्ठन्ति।)