यथा च वेणीसंहारे युधिष्ठिरे दुर्योधनमभियोजयितुं जिगमिषति—
राक्षसः(उपगम्यय)— राजन्, रिपुजयविमुखं यदा ते चेतः तदा यत्र तत्र प्राणत्यागः क्रियताम्। वृथा तु तत्र गमनम्, इति।
कार्यात्ययोपगमनं विरोधनमिति स्मतम्॥ २७३॥ (नाशा. १९.८८)
वासवदत्ता— न खु अहं ? अत्तणो कारणेण एव्वं भणामि। एसा खु मए णिग्घिणाए इह संजदा साअरिआ विवज्जदि। ता परित्ताअदु परित्ताअदु अज्जउत्तो। (न खल्वहमात्मनः कारणेनैवं भणामि। एषा खलु मया निर्घृणयेह संयता सागरिका विपद्यते। तत्परित्रायतां परित्रायतामार्यपुत्रः!) इति।
यथा च वेणीसंहारे, (प्रविश्य सम्भ्रान्तः),
कञ्चुकी— महाराज! परित्रायताम्! एष दुरात्मा कौरवापसदः क्षतजजला— भिषेकपाटलिताम्बरः समुच्छ्रितरक्तभीषणगदाशनिरुद्यतकालदण्ड इव अन्तकोऽत्रभवतीं पाञ्चालतनयामितस्ततः परिमार्गमाणः इत एवाभिवर्तते, इति॥ २७४॥
बीजकार्योपगमनमादानमिति संज्ञितम्॥ २७५॥