सदलङ्कारवाक्यत्वमित्यनेन तु यद्यप्युपात्तलक्षणानां शब्दार्थोभयगुणानां स्वरूपसौन्दर्येणैव काव्यशोभाकरत्वं तथाप्यलङ्कारवत्तैवैनं भारमुद्वोढुमलमित्येतदुपर्युप— देशेनोपपादयति।
तेऽमी शब्दार्थोभयगुणा महाकाव्येषु रसावियोगहेतवो भवन्ति।
तत्र नमस्काराद्युपक्रमत्वमित्यनेन नमस्कारः स्तुतिराशीर्वस्तुनिर्देशो वस्तूपक्षेप इत्युपलक्ष्यन्ते। तत्र
नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे ।
त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे॥ ३५७॥
स्तुतिर्यथा रघुवंशे—(रघु.१.१)
वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥ ३५८॥