भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1201 to 1210 of 1530 verses
त एते गुणा अलङ्काराश्चाविशेषेण। लक्षणं तु त्रिविधमपि विशेषेण व्याख्यायते। तत्र— महाकाव्यादौ यथासम्भवम्, असंक्षिप्‍तग्रन्थत्वमविषमबन्धत्वं, श्रव्यवृत्तत्वम्, अनतिविस्तीर्णसर्गादित्वम्, सुश्लिष्टसन्धित्वं चेति शब्दगुणाः।

चतुर्वर्गसुफलायत्तत्वं, चतुरोदात्तनायकत्वं, रसभावनिरन्तरत्वं, विधिनिषेधव्यु— त्पादकत्वं, सुसूत्रसंविधानकत्वमित्यर्थगुणाः।

रसानुरूपसन्दर्भत्वं पात्रानुरूपभाषत्वमर्थानुरूपच्छन्दस्त्वं समस्तलोकरञ्जकत्वं सदलङ्कारवाक्यत्वमित्युभयगुणाः;

नमस्काराद्युपक्रमत्वं, संबन्धादिमदादिवाक्यत्वं, दुष्कर(सम)संस्कृतादिवाक्यत्वं, भिन्नवृत्तसर्गान्तत्वं, कविभावाङ्कितसमाप्‍तित्वमिति शब्दालङ्काराः।

नगराश्रमशैलसैन्यावासार्णवादिवर्णनम्, ऋतुरात्रिन्दिवार्कास्तमयचन्द्रोदयादि— वर्णनं, नायकनायिकाकुमारसहायवाहनादिवर्णनम्, मन्त्रदूतप्रयाणसङ्ग्रामाभ्युदया— दिवर्णनं, वनविहारजलक्रीडामधुपानमानापगमरतोत्सवादिवर्णनमित्यर्थालङ्काराः।

बीजबिन्दुपताकाप्रकरीकार्योपकल्पनं, गर्भाङ्कचूलिकाङ्कावतारविष्कम्भक— प्रवेशकविधानं, देशकालपात्रचेष्टाकथान्तरानुषञ्जनं, द्विसन्धानं, मार्गद्वयानुवर्तन— मित्युभयालङ्काराः।

तत्रासङ्क्षिप्‍तग्रन्थत्वमित्यनेन ग्रन्थगौरवमाचक्षाणः कथारसविच्छेदशङ्किनां मनांस्यावर्जयति।

अविषमबन्धत्वमित्यनेन शब्दसन्दर्भवेदिनां मनोमुदमादधाति।

श्रव्यवृत्तत्वमित्यनेन यद्यपि पद्यभेदत्वान्महाकाव्यादेः सर्वापि चतुष्पदी समाकृष्टा, तथापि यान्येव श्रुतिसुखमुपजनयन्ति वृत्तानि तान्येव निबन्धनीयानीति दर्शयन् श्रोतृजनं प्रोत्साहयति।

अनतिविस्तीर्णसर्गादित्वमित्यनेन ग्रन्थविस्तरभीरूणां चित्तमाकर्षयति। सुश्लिष्टसन्धित्वमित्यनेन तु सर्गादीनां परस्परमेकवाक्यतया महावाक्यात्मकस्य प्रबन्धस्योपकारित्वं दर्शयति।

Showing 1201 to 1210 of 1530 verses