कह णु णवचंपअंत्री मुणालबाहू पिआ तवइ(दहइ)॥ ३३१॥
(कमलकरा रम्भोरूः कुवलयनयना मृगाङ्कवदना सा।
कथं नु नवचम्पकाङ्गी मृणालबाहुः प्रिया तपति(दहति)॥)
चतुर्थी यथा—(रुद्रट. ८.२०)
शरदिन्दुसुन्दरमुखी कुवलयदलदीर्घलोचना सा मे।
दहति मनः कथमनिशं रम्भागर्भाभिरामोरूः॥ ३३२॥
प्रत्ययो हि कश्चिदुपमेये, कश्चिदुपमाने, कश्चित्सामान्ये, कश्चिदिवार्थे विधीयते। तत्र, उपमेये यथा—(सक. ४.५)
हंसो ध्वाङ्क्षविरावी स्यादुष्ट्रक्रोशी च कोकिलः।
खरनादी मयूरोऽपि त्वं चेद् वदसि वाग्ग्मिनि !॥ ३३३॥