तथापि तेभ्यः सविशेषमुच्यते स्वरूपमासामिह तन्निशम्यताम्॥ ३२८॥
शब्दविशेषद्वारकोऽर्थविशेषो येषु प्रतीयते ते उभयालङ्काराः।
तेऽपि चतुर्विंशतिरेव। तद्यथा—
उपमा, रूपकं, साम्यं, संशयः, समाधिः, समासोक्तिः, सहोक्तिः, समुच्चयः, तुल्ययोगिता, लेशः, अपह्नुतिः, अप्रस्तुतप्रशंसा, उत्प्रेक्षा, अर्थान्तरन्यासः, दीपकं, परिकरः, क्रमः, पर्यायः, अतिशयः, आक्षेपः, विशेषः, श्लेषः, भाविकः, संसृष्टिरिति। तत्र —
प्रसिद्धयनुरोधेनार्थयोर्मिथः प्रतीयमानाभिधीयमानभूयोवयवसामान्ययोग उपमा।
सा त्रिधा— पदोपमा, वाक्योपमा प्रपञ्चोपमा च। तासु
पदोपमा द्विधा— समासोपमा, प्रत्ययोपमा च। तयोः
समासोपमा चतुर्धा— अन्तर्भूतेवार्था, अन्तर्भूतसामान्या, अन्तर्भूतोभयार्था सर्वसमासा चेति। तासु—