'शोभां पुष्यत्ययमभिनवः सुन्दरीणां प्रबोधः'॥ ३०२॥
'किञ्चिद् भावालसमसरलप्रेक्षितं कामिनीनाम्॥ ३०३॥
कार्याकार्याण्ययमविकलान्यागमेनैव पश्यन्।
वश्यामुर्वीं वहति नृप इत्यस्ति चैवं प्रयोगः॥ ३०४॥ (काव्याद. ४.३०)
लुप्ते पदान्ते शेषस्य पदत्वं निश्चितं यथा।
तथा सन्धिविकारान्तं पदमेवेति वर्ण्यते॥ ३०५॥
४. विरूपसन्धि विसन्धि— (काव्याद. ४.३६)
न संहितां विवक्षामीत्यसन्धानं पदेषु यत्।
तद् विसन्धीति निर्दिष्टं न प्रगृह्यादिहेतुकम्॥ ३०६॥